(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharat Part 4 | Virat Parva | महाभारत | विराट पर्व


॥ श्रीः ॥
4.29. अध्यायः 029
Mahabharata - Virata Parva - Chapter Topics
पाण्डवान्वेषणाय क्रमेण विराटपुरमागतैश्चारैर्हास्तिनपुरमेत्य दुर्योधनंप्रति स्वेषां पाण्डवानवगतिनिवेदनपूर्वकं कीचकवधनिवेदनम् ॥ 1 ॥
Mahabharata - Virata Parva - Chapter Text

वैशम्पायन उवाच। 4-29-0x(3120)(29547)
कीचके तु हते राजा विराटः परवीरहा।
शोकमाहारयत्तीव्रं सामात्यः सपुरोहितः ॥ 1 ॥ 4-29-1(29548)
कीचकस्य वधं घोरं सानुजस्य विशांपते ।
अत्याहितं चिन्तयित्वा व्यस्मयन्त पृथग्जनाः ॥ 2 ॥ 4-29-2(29549)
तस्मिन्पुरे जनपदे जजल्पुश्चापि सर्वशः ।
वीर्यवान्दयितो राज्ञो दर्पोत्सिक्तश्च कीचकः ॥ 3 ॥ 4-29-3(29550)
सांपराये परिक्रुष्टो बलवान्दुर्जयो रणे।
आसीत्प्रहर्ता शत्रूणां दारदर्शी च दुर्मतिः ।
स हतः किल गन्धर्वैः सैरन्ध्रीकारणान्निशि ॥ 4 ॥ 4-29-4(29551)
इत्यजल्पन्महाराज कीचकस्य विनाशनम् ।
देशेदेशे मनुष्याश्च विस्मितः कीचके हते ॥ 5 ॥ 4-29-5(29552)
अथ वैः धार्तराष्ट्रेण प्रयुक्ता ये बहिश्चराः ।
मृगयित्वा बहून्देशान्ग्रामांश्च नगराणि च ॥ 6 ॥ 4-29-6(29553)
संविधाय यथाऽऽदिष्टं यथादेशं प्रदर्शकाः ।
कृतसंकेतनाः सर्वे न्यवर्तन्त पुरं ततः ॥ 7 ॥ 4-29-7(29554)
आगम्य हास्तिनपुरं धार्तराष्ट्रमरिन्दमम्।
तत्र दृष्ट्वा तु राजानं कौरव्यं धृतराष्ट्रजम् ॥ 8 ॥ 4-29-8(29555)
द्रोणकर्णकृपैः सार्धं भीष्मेण च महात्मना।
संगतं भ्रातृभिः सार्धं त्रिगर्तैश्च महारथैः ॥ 9 ॥ 4-29-9(29556)
प्रणम्य शिरसा भूमौ वर्धयित्वा जयाशिषा।
आसीनं सूर्यसंकाशे काञ्चने परमासने ॥ 10 ॥ 4-29-10(29557)
उपास्यमानं सचिवैर्मरुद्भिरिव वासवम् ।
विद्वद्भिर्गायकैः सार्धं कविभिः स्तुतिपाठकैः ॥ 11 ॥ 4-29-11(29558)
अनेकैरपि राजन्यैः सेवितं सपरिच्छदैः।
दुर्योधनं सभामध्ये आसीनमिदमब्रुवन् ॥ 12 ॥ 4-29-12(29559)
कृतोऽस्माभिः परो यत्नस्तेषामन्वेषणे सदा ।
पाण्डवानां मनुष्येन्द्र तस्मिन्महति कानने ॥ 13 ॥ 4-29-13(29560)
निर्जने व्यालसंकीर्णे नानाभ्रमरसंकुले ।
लताप्रतानगहने नानागुल्मसमावृते ॥ 14 ॥ 4-29-14(29561)
न च विद्मो गता येन पार्थाः सुदृढविक्रमाः ।
मार्गमाणाः पदन्यासमाश्रमेषु वनेषु च ॥ 15 ॥ 4-29-15(29562)
गिरिकूटेषु तुङ्गेषु नानाजनपदेषु च।
जनाकीर्णेषु देशेषु चत्वरेषु पुरेषु च ॥ 16 ॥ 4-29-16(29563)
नरेन्द्र सहसा नष्टान्नैव विद्म च पाण्डवान्।
अत्यन्तादर्शनान्नष्टा भद्रं तुभ्यं नरर्षभ ॥ 17 ॥ 4-29-17(29564)
गिरीणां कूटकुञ्जेषु कन्दरोदरसानुषु।
नदीप्रस्रवणेष्वेव ह्रदेषु च सरस्सु च॥ 18 ॥ 4-29-18(29565)
गह्वरेषु च दुर्गेषु ग्रामेषू पवनेषु च।
दुर्विज्ञेया गतिस्तेषां मृग्यतेऽस्माभिरेव च ॥
गजव्याघ्रसमीपेषु सिंहान्ते शरभान्तरे ॥ 19 ॥ 4-29-19(29566)
वत्मन्यन्विच्छमानास्तु रथानां रथिसत्तम।
कंचित्कालं मनुष्येन्द्र सूताननुगता वयम् ॥ 20 ॥ 4-29-20(29567)
मृगयित्वा यथान्यायं विदितार्थाश्च तत्वतः।
प्राप्ता द्वारवतीं सूता विना पार्थैः परंतप ॥ 21 ॥ 4-29-21(29568)
न तत्र कृष्णा राजेन्द्र पाण्डवाश्च महाव्रताः।
नरदेव यथोद्दिष्टं न च विद्मात्र पाण्डवान् ॥ 22 ॥ 4-29-22(29569)
निर्वृतो भव नष्टास्ते स्वस्थो भव परंतप ।
सर्वथैव प्रनष्टास्ते नमस्ते भरतर्षभ ॥ 23 ॥ 4-29-23(29570)
सर्वा च पृथिवी कृत्स्ना सशैलवनकानना ।
सराष्ट्रनगरग्रामा पत्तनैश्च समन्विता ।
अन्वेषिता च सर्वत्र न च पश्यामा पाण्डवान् ॥ 24 ॥ 4-29-24(29571)
पुनः शाधि मनुष्येन्द्र अत ऊर्ध्वं विशांपते।
अन्वेषणे पाण्डवानां भूयः किं करवामहे ॥ 25 ॥ 4-29-25(29572)
इमां च नः प्रियां वीर वाचं भद्रवतीं शृणु ॥ 26 ॥ 4-29-26(29573)
येन त्रिगर्ता निहता बलेन बहुशो नृप।
सूतेन राज्ञो मत्स्यस्य कीचकेन बलीयसा।
स हतः पतितः शेते गन्धर्वैर्निशि भारत ॥ 27 ॥ 4-29-27(29574)
स्यालो राज्ञो विराटस्य सेनापतिरुदारधीः।
सुदेष्णायानुजः क्रूरः शूरो वीरो गतव्यथः ॥ 28 ॥ 4-29-28(29575)
उत्साहवान्महावीर्यो नीतिमान्बलवानपि ।
युद्धज्ञो रिपुवीर्यघ्नःक सिंहतुल्यपराक्रमः ॥ 29 ॥ 4-29-29(29576)
प्रजारक्षणदक्षश्च शत्रुग्रहणशक्तिमान्।
विजितारिर्महायुद्धे प्रचण्डो मानतत्परः ॥ 30 ॥ 4-29-30(29577)
नरनारीमनोह्लादी धीरो वाग्मी रणप्रियः।
पुण्यकर्माऽर्थकामानां भाजनं मनुजोत्तमः ॥ 31 ॥ 4-29-31(29578)
स हतो निशि गन्धैर्वः स्त्रीनिमित्तं नराधिप।
अमृष्यमाणो दुष्टात्मा निशीथे सह सोदरैः ।
सुहृदश्चास्य निहता योधाश्च प्रहरैर्हताः ॥ 32 ॥ 4-29-32(29579)
गन्धर्वाणां च महिषी काचिदस्ति नितम्बिनी।
सैरन्ध्री नाम तां दृप्तो दुष्टात्माऽकामयद्बली ॥ 33 ॥ 4-29-33(29580)
इत्येवं श्रुतमस्माभिर्गन्धर्वैर्निहतो निशि ॥ 34 ॥ 4-29-34(29581)
बान्धवैर्बहुभिः सार्धं कीचको निहतो यतः।
अद्यप्रभृति राजेन्द्र पाण्डवान्वेषणं प्रति।
चारांश्च सर्वतश्चर्तुं प्रेषयेति मतिर्हि नः ॥ 35 ॥ 4-29-35(29582)
निहतो निशि गन्धर्वैर्दुष्टात्मा भ्रातृभिः सह ।
एतावच्छ्रुतमस्माभिर्भद्रं तेऽस्तु नराधिप ॥ 36 ॥ 4-29-36(29583)
प्रियमेतदुपश्रुत्य शत्रूणां च पराभवम् ।
कृतकृत्यश्च कौरव्य विधत्स्व यदनन्तरम् ॥ 37 ॥ ॥ 4-29-37(29584)

इति श्रीमन्महाभारते विराटपर्वणि ग्रोग्रहणपर्वणि एकोऽनत्रिंशोऽध्यायः ॥ 29 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.